वांछित मन्त्र चुनें

आजि॑पते नृपते॒ त्वमिद्धि नो॒ वाज॒ आ व॑क्षि सुक्रतो । वी॒ती होत्रा॑भिरु॒त दे॒ववी॑तिभिः सस॒वांसो॒ वि शृ॑ण्विरे ॥

अंग्रेज़ी लिप्यंतरण

ājipate nṛpate tvam id dhi no vāja ā vakṣi sukrato | vītī hotrābhir uta devavītibhiḥ sasavāṁso vi śṛṇvire ||

पद पाठ

आजि॑ऽपते । नृ॒ऽप॒ते॒ । त्वम् । इत् । हि । नः॒ । वाजे॑ । आ । व॒क्षि॒ । सु॒क्र॒तो॒ इति॑ सुऽक्रतो । वी॒ती । होत्रा॑भिः । उ॒त । दे॒ववी॑तिऽभिः । स॒स॒ऽवांसः॑ । वि । शृ॒ण्वि॒रे॒ ॥ ८.५४.६

ऋग्वेद » मण्डल:8» सूक्त:54» मन्त्र:6 | अष्टक:6» अध्याय:4» वर्ग:25» मन्त्र:2 | मण्डल:8» अनुवाक:6» मन्त्र:6